पूर्वम्: ३।१।१०१
अनन्तरम्: ३।१।१०३
सूत्रम्
वह्यं करणम्॥
३।१।१०२
काशिका-वृत्तिः
वह्यं करणम्
३।१।१०२
वहेर् धातोः करणे यत् प्रत्ययो निपात्यते। वहत्यनेन इति वह्यं शकटम्।
करणे इति किम्?
वाह्यम् अन्यत्।
न्यासः
वह्रं करणम्।
, ३।१।१०२
बाल-मनोरमा
वह्रं करणम्
६७१, ३।१।१०२
वह्रं करणम्। वहेः करणे यन्निपात्यते। ण्यतोऽपवादः।
तत्त्व-बोधिनी
अह्रं करणम्
५५८, ३।१।१०२
वाह्रमिति। वहनकर्मेत्यर्थः।